|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.12. अध्यायः 012
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति ब्राह्मणप्रशंसनम्॥ 1 ॥

Mahabharata - Anushaasana Parva - Chapter Text
युधिष्ठिर उवाच।
यथैव ते नमस्कार्याः प्रोक्ताः शक्रेण मानद।
एतन्मे सर्वमाचक्ष्व येभ्यः स्पृहयसे नृपः॥ 13-12-1(81702)
उत्तमापद्गतस्यापि यत्र ते वर्तते मनः।
मनुष्यलोके सर्वस्मिन्यदमुत्रेह चाप्युत॥ 13-12-2(81703)
भीष्म उवाच। 13-12-3x(6772)
स्पृहयामि द्विजातिभ्यो येषां ब्रह्म परं धनम्।
येषां संप्रत्ययः स्वर्गस्तपःस्वाध्यायसाधनम्॥ 13-12-3(81704)
येषां बालाश्च वृद्धाश्च पितृपैतामहीं धुरम्।
उद्वहन्ति न सीदन्ति तेभ्यो वै स्पृहयाम्यहम्॥ 13-12-4(81705)
विद्यास्वभिविनीतानां दान्तानां मृदुभाषिणाम्।
श्रुतवृत्तोपपन्नानां सदाऽक्षरविदां सताम्॥ 13-12-5(81706)
संसत्सु वदतां तात हंसानामिव सङ्घशः।
मङ्गल्यरूपा रुचिरा दिव्यजीमूतनिःस्वनाः॥ 13-12-6(81707)
सम्यगुच्चरिता वाचः श्रूयन्ते हि युधिष्ठिर।
शुश्रूषमाणे नृपतौ प्रेत्य चेह सुखावहाः॥ 13-12-7(81708)
ये चापि तेषां श्रोतारः सदा सदसि सम्मताः।
विज्ञानगुणसम्पन्नास्तेभ्यश्च स्पृहयाम्यहम्॥ 13-12-8(81709)
सुसंस्कृतानि प्रयताः शुचीनि गुणवन्ति च।
ददत्यन्नानि तृप्त्यर्थं ब्राह्मणेभ्यो युधिष्ठर।
ये चापि सततं राजंस्तेभ्यश्च स्पृहयाम्यहम्॥ 13-12-9(81710)
शक्यं ह्येवाहवे योद्धुं न दातुमनसूयितुम्॥ 13-12-10(81711)
शूरा वीराश्च शतशः सन्ति लोके युधिष्ठिर।
तेषां संख्यायमानानां दानशूरो विशिष्यते॥ 13-12-11(81712)
`भद्रं तु जन्म सम्प्राप्य भूयो ब्राह्मणको भवेत्।
बन्धुमध्ये कुले जातः सुदुरापमवाप्नुयात्॥' 13-12-12(81713)
धन्यः स्यां यद्यहं भूयः सौम्यब्राह्मणकोपि वा।
कुले जातो धर्मगतिस्तपोविद्यापरायणः॥ 13-12-13(81714)
न मे त्वत्तः प्रियतरो लोकेऽस्मिन्पाण्डुनन्दन।
त्वत्तश्चापि प्रियतरा ब्राह्मणा एव भारत॥ 13-12-14(81715)
यथा मम प्रियतमास्त्वत्तो विप्राः कुरूत्तम।
तेन सत्येन गच्छेयं लोकान्यत्र स शन्तनुः॥ 13-12-15(81716)
न मे पिता प्रियतरो ब्रह्मणेभ्यस्तथाऽभवत्।
न मे पितुः पिता वाऽपि ये चान्येऽपि सुहृञ्जनाः॥ 13-12-16(81717)
न हि मे वृजिनं किञ्चिद्विद्यते ब्राह्मणेष्विह।
अणु वा यदि वा स्थूलं विद्यते साधुकर्मसु॥ 13-12-17(81718)
कर्मणा मनसा वाऽपि वाचा वाऽपि परंतप।
यन्मे कृतं ब्राह्मणेभ्यस्तेनाद्य न तपाम्यहम्॥ 13-12-18(81719)
ब्रह्मण्य इति मामाहुस्तया वाचाऽस्मि तोषितः।
एतदेव पवित्रेभ्यः सर्वेभ्यः परमं स्मृतम्॥ 13-12-19(81720)
पश्यामि लोकानमलाञ्शुचीन्ब्राह्मणतोषणात्।
तेषु मे तात गन्तव्यमह्नाय च चिराय च॥ 13-12-20(81721)
यथा भर्त्राश्रयो धर्मः स्त्रीणां लोके युदिष्ठिर।
स देवः सा गतिर्नान्या क्षत्रियस्य तथा द्विजाः॥ 13-12-21(81722)
क्षत्रियः शतवर्षी च दशवर्षी द्विजोत्तमः।
पितापुत्रौ च विज्ञेयौ तयोर्हि ब्राह्मणो गुरुः॥ 13-12-22(81723)
नारी तु पत्यभावे वै देवरं कुरुते पतिम्।
पृथिवी ब्राह्मणालाभे क्षत्रियं कुरुते पतिम्॥ 13-12-23(81724)
`ब्राह्मणानुज्ञया ग्राह्यं राज्यं च सपुरोहितैः।
तद्रक्षणेन स्वर्गोऽस्य तत्कोपान्नरकोऽक्षयः॥' 13-12-24(81725)
पुत्रवच्चैव ते रक्ष्या उपास्या गुरुवच्च ते।
अग्निवच्चोपचार्या वै ब्राह्मणाः कुरुसत्तम्॥ 13-12-25(81726)
ऋजुन्सतः सत्यशीलान्सर्वभूतहिते रतान्।
आशीविषानिव क्रुद्धान्द्विजान्परिचरेत्सदा॥ 13-12-26(81727)
तेजसस्तपसश्चैव नित्यं बिभ्येद्युधिष्ठिर।
उभे चैते परित्याज्ये तेजश्चैव तपस्तथा॥ 13-12-27(81728)
व्यवसायस्तयोः शीघ्रमुभयोरेव विद्यते।
हन्युः क्रुद्धा महाराज ब्राह्मणा ये तपस्विनः॥ 13-12-28(81729)
`दूरतो मातृवत्पूज्या विप्रदाराः सुरक्षया।
अकोपनापराधेन भूयो नरकमश्नुते॥ 13-12-29(81730)
भूयः स्यादुभयं दत्तं ब्राह्मणाद्यदकोपनात्।
कुर्यादुभयतः शेषं दत्तशेषं न शेषयेत्॥ 13-12-30(81731)
दण्डपाणिर्यथा गोष्ठं पालो नित्यं हि रक्षयेत्।
ब्राह्मणेषु स्थितं ब्रह्म क्षत्रियः परिपालयेत्॥ 13-12-31(81732)
पितेव पुत्रान्रक्षेथा ब्राह्मणान्ब्रह्मतेजसः।
गृहे चैषामवेक्षेथाः किंस्विदस्तीति जीवनम्॥ ॥ 13-12-32(81733)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्वादशोऽध्यायः॥ 12 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-12-2 यदमुत्रेह च हितं तद्वदेति शेषः॥ 7-12-5 अक्षरं ब्रह्म तद्विदाम्॥ 7-12-6 हंससादृश्यं क्षीरनीरयोरिव सारसारयोर्विवेचनात्॥ 7-12-7 नृपतौ नृपतेः समीपे उच्चरिताः॥ 7-12-8 ये चापि तेषां दातार इति ध. पाठः॥ 7-12-13 ब्राह्मणकः कुत्सितब्राह्मणोपि यद्यहं स्यां तर्हि धन्यः किमुत फुले जातः॥ 7-12-17 यृजिनं सङ्कटम्। फलाशेथियावत्। पूज्यत्वादेव तान्पूजयामि नतु फलायेत्यर्थः॥ 7-12-18 तेन ब्राह्मणारावनेन। न तपामि न व्यथां प्राप्तोमि॥ 7-12-19 ब्रह्मण्यो ब्रह्मजातौ आसक्तः॥ 7-12-27 ब्राह्मणाद्बिभ्येत् नतु तत्र तेजस्तपसी स्वीये प्रकाशयेदित्यर्थः। तेजः क्रोधबलम्। तपो योगबलम्॥ 7-12-28 तयोस्तपस्तेजसोर्ब्रह्मणक्षत्रियस्थयोर्व्यवसायः फलमभिभवरूपं शीघ्रं तीव्रं तथापि तपस्विन एवेतरान् हन्युर्न तेजस्विन इत्यर्थः॥ 7-12-30 ल्यब्लोपे पञ्चमी। अकोपनं ब्राह्मणं प्राप्य यद्भूयः बहुतरं उभयं तपस्तेजआख्यं स्यात् तद्दत्तं खण्डितं भवतीति शेषः। उभयत उभयं चेत् शेषं कुर्याद् दत्तशेषं शेषयेदित्यन्वयः। द्वाभ्यां अन्योन्यस्मिन्प्रयुक्तं तेजआदिद्वयं न निःशेषं नश्यति किन्तु शेषम्। क्षमावता खण्डितस्य तस्यावशिष्टं तु न शेषयेन्न शिष्यते अपितु निःशेषमेव नश्यतीत्यर्थः॥ 30 ॥ 7-12-32 अभावे तद्देयमित्यर्थः॥ 7-12-42 द्वादशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|